top of page

जिष्णु

पुराणेषु कतिपयेषु स्थलेषु (वायु २५.२९, विष्णुधर्मोत्तर १.१५.१६ ) उल्लेखं अस्ति यत् जिष्णुना मधोः एवं विष्णुना कैटभस्य वधं कृतमासीत्। मधुकैटभौ कौ स्तः, अस्मिन् संदर्भे( गरुड ३.१२.८६(मधु-कैटभ का हंस-हिडिम्ब से तादात्म्य) गरुडपुराणे उल्लेखमस्ति यत् एकः हंसरूपः अस्ति, द्वितीयः हिडिम्बः। पुराणेषु हंस-डिम्भकौ जरासंधस्य मन्त्रिणौ स्तः एवं सहोदरौ स्तः। अयं प्रतीयते यत् हंसः आत्मनः प्रतीकमस्ति, डिम्भकः आत्मनः परितः प्राणानां। भविष्यपुराणे ३.३.३१.५ उल्लेखमस्ति यत् ब्रह्मानन्दसंज्ञकः आह्लादस्य भ्राता जिष्णोः अंशः अस्ति। एभ्यः संदर्भेभ्यः संकेतं मिलति यत् एकः ब्रह्मानन्दः अस्ति, द्वितीयः आह्लादः। अथर्ववेद  १०.५ सूक्ते जिष्णुयोगस्य एवं विष्णुयोगस्य वर्णनमस्ति। बृहदारण्यकोपनिषदे २.५.८ मधुविद्या किं भवति, अस्य कथनमस्ति । यदा केन्द्रस्था चेतना परितस्थेभ्यः सर्वेभ्यः भूतेभ्यः मधुरूपा भवति एवं परितःस्थाः सर्वाणि भूतानि केन्द्रस्थिताय चेतनपुरुषाय मधुरूपाः भवन्ति, तत् मधुविद्या अस्ति। बृहदारण्यकस्य कथनं भविष्यपुराणस्य कथनस्य बृहत्तररूपं प्रतीयते।

bottom of page