Acerca de
ताम्र
ताम्र
यजुर्वेदे (वा.सं. १६.६) शतरुद्रियसंदर्भे उल्लेखः अस्ति –
असौ यः ताम्रो अरुणः उत बभ्रुः सुमङ्गलः।
अत्र ताम्रस्य रुद्रेण सह किं सम्बन्धमस्ति। ताम्रशब्दः वैदिक-पौराणिक वाङ्मये विरलः अस्ति। वराहपुराणे १२९.२६ कथनमस्ति यत् गुडाकेशसंज्ञकः असुरः विष्णुं प्रार्थयति यत् सः स्वचक्रेण तस्य सर्वस्य देहस्य कर्तनं कुर्यात् एवं तस्य देहस्य वसामांसादीनां परिवर्तनं ताम्ररूपेण भवेत् (पूर्वं कमलपत्राक्षि गुडाकेशो महासुरः ।।
ताम्ररूपं समादाय ममैवाराधने रतः ।।)। विष्णुः तस्य प्रार्थनां श्रुत्वा एवमेव करोति। अनेन कारणेन ताम्रः विष्णुपूजायां पवित्रः भवति। महाभारतादिषु गुडाकेशः अर्जुनस्य सम्बोधनमस्ति। गुडाकेशशब्दस्य निर्वचनं एवंप्रकारेण कृतमस्ति – गुडाका गहन निद्रा अस्ति। तस्य ईशः गुडाकेशः इति उच्यते। अयं कथनं संकेतं ददाति यत् ताम्रः अपि केनापि प्रकारेण निद्रातः सम्बद्धः अस्ति। पुराणेषु ताम्रस्य परोक्षरूपं तामससंज्ञकः मनुः अस्ति। वायुपुराणे २६.३६ कथनमस्ति - वर्णतस्तु स्मृतस्ताम्रः स मनुस्तामसः स्मृतः ।। अर्थात् यः तामससंज्ञकः मनुः अस्ति,तस्य वर्णं ताम्रः अस्ति। गुडाकेशशब्दस्य यः निर्वचनं कृतमस्ति, तस्य वैकल्पिकनिर्वचनः अपि सम्भवमस्ति। ऋग्वेदे गुडाकः शब्दं नास्ति, गुहाकः अस्ति। ऋचासु यत् गुहा शब्दः अस्ति, तत्र उल्लेखमस्ति यत् गुहा निधीनां, गवामादीनां गोपनस्थानमस्ति। गुहातः निधीनां प्राप्तिः अपेक्षणीया अस्ति। निद्रावस्थायां यदा गुहातः निधीनां प्राप्तिः सम्भवः भवति, तदा तमः ताम्रः भविष्यति। अयं स्वाभाविकमस्ति यत् अस्मिन् ताम्रे बहवः रौद्ररूपाः निहिता भविष्यन्ति। तेषां शोधनं असौ यः ताम्रः अरुणः उत बभ्रुः सुमङ्गलः कथनेन अपेक्षितः अस्ति।
ताम्रतः अग्रिमा स्थितिः अरुणः अस्ति, अरुणतः अग्रिमा बभ्रुः।
यद् वै दिवा भवत्य् अपो रात्रिः प्र विशति तस्मात् ताम्रा आपो दिवा ददृश्रे यन् नक्तम् भवत्य् अपो ऽहः प्र विशति तस्माच् चन्द्रा आपो नक्तं ददृश्रे – तैसं ६.४.२.४
तस्य ये प्राञ्चो रश्मयस् तत् प्रथमम् अहः॥ ये दक्षिणास् तद् द्वितीयं, ये प्रत्यञ्चस् तत् तृतीयं, य उदञ्चस् तच् चतुर्थं, य ऊर्ध्वास् तत् पञ्चमं, य अर्वाञ्चस् तत् षष्ठं, यद् एव भाति तत् सप्तमं, यत् तपति तद् अष्टमं, यद् एव ताम्रम् इव तन् नवमं, मण्डलम् एव दशमम् अहः। जैब्रा ३.३७८
ताम्रो अरुणः । ता अविसृष्टौ । दंपती एव भवतः, इति । तयोरेतौ वत्सौ । वृत्रश्च वैद्युतश्च । अग्नेर्वृत्रः । वैद्युत आदित्यस्य । - तैआ १.१०.६
ताम्रं पुत्रसमृद्ध्यर्थ कांस्यं विद्वेषकारकम् । प्रोच्चाटने चारकूटमायसं क्षयकारणम् । सीसं नीरोगकरणं त्रपुरायुर्विनाशनम् ।।- वैखानसगृह्यसूत्रम्