top of page

जिह्वा-

ऋग्वेदे  १.०१३.०८ सुजिह्वायाः उल्लेखमस्ति। सुजिह्वा या यज्ञं यक्षति। ऋग्वेदे   ५.०२६.०१, ६.०१६.०२ जिह्वायां स्थितायां अग्नितः प्रार्थना अस्ति यत् सा देवानां वक्षणं एवं यक्षणं करोतु। स्थूलास्तरे अयं प्रतीयते यत् यदा कोपि कटुवचनं श्रूयन्ते, तदा हृदयः कम्पति। अयं वक्षस्य वक्षणमस्ति। अस्य विपरीते, यदा कोपि मधुरं शब्दं श्रूयन्ते, तदा हृदयः शीतलं भवति। अयं यक्षं भवितुं शक्यते।

     ऋग्वेदे ८.०७२.०३ कथनमस्ति - गृभ्णन्ति जिह्वया ससम्। सायणभाष्ये ससम्शब्दस्य व्याख्या सुप्तं कृतमस्ति। ससशब्दस्य विकसितरूपं शश, चन्द्रमा भवितुं शक्यते। अयं सामान्यमस्ति यत् जंगमप्राणिषु मनः अचेतनस्थित्यां, सुप्तावस्थायां वसति। जिह्वा अस्य संकेतं ददाति। यदा कोपि अन्नः अप्रियः प्रतीयते, तत् अन्नस्य अचेतनमनस्य संकेतं करोति। लौकिकव्यवहारे निर्देशमस्ति यत् भक्तः यावत् अन्नोपरि रामनाम न लिखति, तावत् कण्ठस्याधः प्रसरणस्य अनुमतिं न ददाति। अयं संकेतमस्ति यत् जिह्वान्तरे या अग्निः अस्ति, तत् अन्नस्य पाकं कर्तुं शक्ता अस्ति, तत् अचेतनमनस्य विकासं चेतनमनसि कर्तुं शक्ता अस्ति। ऋग्वेद १०.११०.०२ तः अपि अस्य पुष्टिः भवति, अयं प्रतीयते।

     शतपथब्राह्मणे १.२.१, १७ हनोः तादात्म्यं दृषद-उपलयोः सह एवं जिह्वायाः तादात्म्यं शम्यया सह कृतमस्ति। दृषदउपलयोः कार्यं बीजरूपस्य अन्नस्य पेषणमस्ति। तस्मिन् रसस्य सेचनं, प्राणरूपजीवस्य सेचनं जिह्वायाः कार्यमस्ति। अधरा हनुः दृषदस्य रूपं भवति, उत्तरा उपलस्य। सोमयागे अयं उपलः उपरवस्य रूपमपि धारयति, अयं प्रतीयते। अयं उपरवः मनसः संकेतं प्रतीयते। जिह्वायाः सर्जनं अधराहनोः एवं उत्तरहनोः सन्धितः भवति, अयं कल्पना कर्तुं शक्यन्ते। यत्र सन्धिः भवति, तत्र व्यानप्राणस्य जननं भवति। वैदिकवाङ्मये उपांशुसवनस्य एव उल्लेखं व्यानरूपेण प्राप्यते, न जिह्वायाः अथवा शम्यायाः।

     खजुराहो मध्ये यज्ञवराहस्य या प्रतिमा उपलभ्यते, तस्याः मुखे सरस्वती विराजति (स्कन्दपुराणे ५.१.५२.४३ एवं मत्स्यपुराणे २४८.६८ यज्ञवाराहस्य जिह्वायां अग्नेः स्थित्याः उल्लेखमस्ति, न सरस्वत्याः। सरस्वत्याः वासं कपिलागौः जिह्वायां अस्ति, अयं कथनमस्ति)।

देहे यः शिश्नः अस्ति, तदपि जिह्वायाः अनिरुक्तं रूपमस्ति, एवं कथनमस्ति।

      राम अवतार के समय जो शूर्पणखा थी, वह कृष्ण अवतार के समय कुब्जा बनी जिसने कृष्ण को अंगराग अर्पित किया। कृष्ण ने उसके कुब्जत्व को दूर करके उसे समंगा बना दिया। यहां अंगराग से तात्पर्य आसक्ति से ही लिया जाना चाहिए। पुराणों में उल्लेख आता है कि शूर्पणखा के पति का नाम विद्युज्जिह्व था जिसे रावण ने मार दिया था। योग में दो जिह्वाओं का उल्लेख आता है - शिश्न निचले स्तर की जिह्वा है जबकि रसना उपर के स्तर की। विद्युत तो दोनों में ही विद्यमान है। अपेक्षा की जाती है कि निचले स्तर की जिह्वा को सक्रिय नहीं होने दिया जाएगा। और ऊपर के स्तर की जिह्वा को भी सक्रिय होने देने की कितनी अनुमति है, यह अन्वेषणीय है। निचले स्तर की जिह्वा और अंगराग में घनिष्ठ संबंध है। निचले स्तर की जिह्वा के सक्रिय होने पर अंगराग का स्वरूप सारे अंगों में विद्यमान कामुकता हो सकता है। पादतल आदि में खुजलाने से जो गुदगुदी उठती है, उसका कारण भी शिश्न की विद्युत को माना जाता है। अतः यदि शिश्न की विद्युत को निष्प्रभावी बना दिया जाए तो पादतल आदि की गुदगुदी भी समाप्त हो सकती है। इस गुदगुदी को अंगराग(सामान्य भाषा में चन्दन) कहा जा सकता है जिसे कुब्जा ने कृष्ण को अर्पित कर दिया था। - शूर्पणखा उपरि टिप्पणी

 

संदर्भाः

ता सुजिह्वा उप ह्वये होतारा दैव्या कवी।

यज्ञं नो यक्षतामिमम्॥ १.०१३.०८

तान्यजत्राँ ऋतावृधोऽग्ने पत्नीवतस्कृधि।

मध्वः सुजिह्व पायय॥ १.०१४.०७

ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया।

मधोरग्ने वषट्कृति॥ १.०१४.०८

शृण्वन्तु स्तोमं मरुतः सुदानवोऽग्निजिह्वा ऋतावृधः।

पिबतु सोमं वरुणो धृतव्रतोऽश्विभ्यामुषसा सजूः॥ १.०४४.१४

तं नव्यसी हृद आ जायमानमस्मत्सुकीर्तिर्मधुजिह्वमश्याः।

यमृत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त॥ १.०६०.०३

पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा।

यदीमिन्द्रं शम्यृक्वाण आशतादिन्नामानि यज्ञियानि दधिरे॥ १.०८७.०५

पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः।

अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह॥ १.०८९.०७

अभि द्विजन्मा त्रिवृदन्नमृज्यते संवत्सरे वावृधे जग्धमी पुनः।

अन्यस्यासा जिह्वया जेन्यो वृषा न्यन्येन वनिनो मृष्ट वारणः॥ १.१४०.०२

ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम्।

इयं हि त्वा मतिर्ममाच्छा सुजिह्व वच्यते॥ १.१४२.०४

मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी।

यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्पृशम्॥ १.१४२.०८

को वोऽन्तर्मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव जिह्वया।

धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः॥ १.१६८.०५

अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिरस्य हियानस्य दक्षोः।

वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान्॥ २.००४.०४

अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः।

तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन्॥ ३.०२०.०२

जिह्वाः । ‘ लिह आस्वादने '। लिहन्त्याभी रसानिति ‘ शेवायह्वाजिह्वाग्रीवाप्वामीवाः' इति निपातनात् वन् । लकारस्य जकारः । गुणाभावः । व्यत्ययेन अन्तोदात्तत्वम् ।- सा.भा.

याँ आभजो मरुत इन्द्र सोमे ये त्वामवर्धन्नभवन्गणस्ते।

तेभिरेतं सजोषा वावशानोऽग्नेः पिब जिह्वया सोममिन्द्र॥ ३.०३५.०९

इन्द्र पिब स्वधया चित्सुतस्याग्नेर्वा पाहि जिह्वया यजत्र।

अध्वर्योर्वा प्रयतं शक्र हस्ताद्धोतुर्वा यज्ञं हविषो जुषस्व॥ ३.०३५.१०

युवं प्रत्नस्य साधथो महो यद्दैवी स्वस्तिः परि णः स्यातम्।

गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि॥ ३.०३८.०९

यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा ह्यस्थात्।

वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता॥ ३.०३९.०३

तावश्विनौ स्तोतुं मम “जिह्वायाः “अग्रं “पतत् चञ्चलम् “आ “अस्थात् “हि तिष्ठति खलु ।

हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः।

देवेषु च सवितः श्लोकमश्रेरादस्मभ्यमा सुव सर्वतातिम्॥ ३.०५४.११

या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची।

तयेह विश्वाँ अवसे यजत्राना सादय पायया चा मधूनि॥ ३.०५७.०५

अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः।

मातुष्पदे परमे अन्ति षद्गोर्वृष्णः शोचिषः प्रयतस्य जिह्वा॥ ४.००५.१०

त्वामग्ने प्रथमं देवयन्तो देवं मर्ता अमृत मन्द्रजिह्वम्।

द्वेषोयुतमा विवासन्ति धीभिर्दमूनसं गृहपतिममूरम्॥ ४.०११.०५

यस्तस्तम्भ सहसा वि ज्मो अन्तान्बृहस्पतिस्त्रिषधस्थो रवेण।

तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम्॥ ४.०५०.०१

स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे।

होतारं मन्द्रजिह्वमित्सुदीतिभिर्विभावसुम्॥ ५.०२५.०२

अग्ने पावक रोचिषा मन्द्रया देव जिह्वया।

आ देवान्वक्षि यक्षि च॥ ५.०२६.०१

स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्नरिम्।

न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम्॥ ५.०४८.०५

ऋतधीतय आ गत सत्यधर्माणो अध्वरम्।

अग्नेः पिबत जिह्वया॥ ५.०५१.०२

अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना।

शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि॥ ६.००६.०५

स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः।

आ देवान्वक्षि यक्षि च॥ ६.०१६.०२

त्वं तं देव जिह्वया परि बाधस्व दुष्कृतम्।

मर्तो यो नो जिघांसति॥ ६.०१६.३२

नू म आ वाचमुप याहि विद्वान्विश्वेभिः सूनो सहसो यजत्रैः।

ये अग्निजिह्वा ऋतसाप आसुर्ये मनुं चक्रुरुपरं दसाय॥ ६.०२१.११

विश्वे देवाः शृणुतेमं हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ।

ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बर्हिषि मादयध्वम्॥ ६.०५२.१३

इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः।

हित्वी शिरो जिह्वया वावदच्चरत्त्रिंशत्पदा न्यक्रमीत्॥ ६.०५९.०६

तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत्।

कृष्णा कृणोति जिह्वया॥ ६.०६०.१०

ता जिह्वया सदमेदं सुमेधा आ यद्वां सत्यो अरतिर्ऋते भूत्।

तद्वां महित्वं घृतान्नावस्तु युवं दाशुषे वि चयिष्टमंहः॥ ६.०६७.०८

उदु ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषमस्थात्।

अयोहनुर्यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम्॥ ६.०७१.०४

स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः।

अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय॥ ७.०१६.०९

बहवः सूरचक्षसोऽग्निजिह्वा ऋतावृधः।

त्रीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः॥ ७.०६६.१०

आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु।

गृभाय जिह्वया मधु॥ ८.०१७.०५

जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन्।

अग्निर्वनेषु रोचते॥ ८.०४३.०८

अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया।

गृभ्णन्ति जिह्वया ससम्॥ ८.०७२.०३

जाम्यतीतपे धनुर्वयोधा अरुहद्वनम्।

दृषदं जिह्वयावधीत्॥ ८.०७२.०४

उतो न्वस्य यत्पदं हर्यतस्य निधान्यम्।

परि द्यां जिह्वयातनत्॥ ८.०७२.१८

सहस्रधारेऽव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः।

अस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवः॥ ९.०७३.०४

ऋतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया।

धीराश्चित्तत्समिनक्षन्त आशतात्रा कर्तमव पदात्यप्रभुः॥ ९.०७३.०९

ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः।

दधाति पुत्रः पित्रोरपीच्यं नाम तृतीयमधि रोचने दिवः॥ ९.०७५.०२

दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम्।

अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोरूर्मा मधुमन्तं पवित्र आ॥ ९.०८५.१०

मूरा अमूर न वयं चिकित्वो महित्वमग्ने त्वमङ्ग वित्से।

शये वव्रिश्चरति जिह्वयादन्रेरिह्यते युवतिं विश्पतिः सन्॥ १०.००४.०४

भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः।

दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहम्॥ १०.००८.०६

यद्वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम्।

अरावा यो नो अभि दुच्छुनायते तस्मिन्तदेनो वसवो नि धेतन॥ १०.०३७.१२

प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः।

तमायवः शुचयन्तं पावकं मन्द्रं होतारं दधिरे यजिष्ठम्॥ १०.०४६.०८

साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम्।

स आयुरागात्सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य॥ १०.०५३.०३

गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोत जिह्वया।

स विश्वाहा सुमना योग्या अभि सिषासनिर्वनते कार इज्जितिम्॥ १०.०५३.११

दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त आसते।

द्यां स्कभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वी तन्वी नि मामृजुः॥ १०.०६५.०७

यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः।

दद्भिर्न जिह्वा परिविष्टमाददाविर्निधीँरकृणोदुस्रियाणाम्॥ १०.०६८.०६

वातासो न ये धुनयो जिगत्नवोऽग्नीनां न जिह्वा विरोकिणः।

वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणां न शंसाः सुरातयः॥ १०.०७८.०३

गुहा शिरो निहितमृधगक्षी असिन्वन्नत्ति जिह्वया वनानि।

अत्राण्यस्मै पड्भिः सं भरन्त्युत्तानहस्ता नमसाधि विक्षु॥ १०.०७९.०२

अयोदंष्ट्रो अर्चिषा यातुधानानुप स्पृश जातवेदः समिद्धः।

आ जिह्वया मूरदेवान्रभस्व क्रव्यादो वृक्त्व्यपि धत्स्वासन्॥ १०.०८७.०२

तनूनपात्पथ ऋतस्य यानान्मध्वा समञ्जन्स्वदया सुजिह्व।

मन्मानि धीभिरुत यज्ञमृन्धन्देवत्रा च कृणुह्यध्वरं नः॥ १०.११०.०२

हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी।

अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि॥ १०.१३७.०७

१. उत्सादेन जिह्वाम् (प्रीणामि) । तैसं ५.७.११.१,  काठ ५३.१। ।

२. केनान्नरसान् ( आप्नोषि) इति, जिह्वयेति । शांआ ३.७, कौउ १.७ ।

३. जिह्वाया अवद्यति, वाच एव तेनावद्यति । मै ३, १०, ३ ।

४. जिह्वाया उत्सादः । मै ३, १५,१ ।

६ हनू एव दृषदुपले जिह्वैव शम्या तस्माच्छम्यया समाहन्ति जिह्वया हि वदति। माश १.२.१, १७

अथाज्यमवेक्षते ।…..सावेक्षते । ऽदब्धेन त्वा चक्षुषावपश्यामीत्यनार्त्तेन त्वा चक्षुषावपश्यामीत्येवैतदाह अग्नेर्जिह्वासीति यदा वा एतदग्नौ जुह्वत्यथाग्नेर्जिह्वा इवोत्तिष्ठन्ति – १.३.१.१९

७ . उपरव विधिः-- अथाधिषवणे फलके उपदधाति । रक्षोहणौ वां वलगहना उपदधामि वैष्णवी इति हनू हैवास्यैते.... अथाधिषवणं परिकृत्तं भवति । सर्वरोहितं जिह्वा हैवास्यैषा तद्यत्सर्वरोहितं भवति लोहिनीव हीयं जिह्वा । माश ३.५.४.२३ ।।

अथ जिह्वायै । सा हीयं पूर्वार्धात्प्रतिष्ठत्यथ वक्षसस्तद्धि ततो – ३.८.३.१७

तद्धृदयं प्रास्यति जिह्वां वक्षस्तनिम मतस्ने वनिष्ठु – ३.८.३.२५

अथ चतुर्गृहीतमाज्यं गृहीत्वा । समिधं प्रास्याभिजुहोत्य .... प्रति ते जिह्वा घृतमुच्चरण्यत्स्वाहेति - ४.४.५.[१२]

ता हैकेऽनन्तर्हितास्त्रिवृद्वतीभ्यामुपदधति । जिह्वा हनू इति वदन्तो याश्चतुर्दश ते हनू याः षट्सा जिह्वेति न तथा कुर्यादति ते रेचयन्ति यथा पूर्वयोर्हन्वोरपरे हनू अनूपदध्याद्यथा पूर्वस्यां जिह्वायामपरां जिह्वामनूपदध्यात्तादृक्तद् - ८.४.४.[९]

सप्त ते अग्ने समिध इति प्राणा वै समिधः प्राणा ह्येतं समिन्धते सप्त जिह्वा इति यानमून्त्सप्त पुरुषानेकं पुरुषमकुर्वंस्तेषामेतदाह - ९.२.३.[४४]

दन्ता इति पुमांसो जिह्वेति स्त्री सर्व एव मिथुनः सोऽनेन मिथुनेनात्मनैतं मिथुनमग्निमप्येति - १०.१.१.[८]

वेत्थार्कधाना इति दन्तान्हैव तदुवाच वेत्थार्काष्ठीलामिति जिह्वां हैव तदुवाच..... स एषोऽग्निरर्को यत्पुरुषः – १०.३.४.५

ते पुरुषमाविशतः। तस्य मुखमेवाहवनीयं कुर्वाते जिह्वां समिधमन्नमेव शुक्रामाहुतिं ते पुरुषं तर्पयतः – ११.६.२.९

मुखं सतम्। जिह्वा पवित्रम्। चप्पं पायुः। बस्तिर्वालः॥१२.९.१.३

५ प्राण एवेन्द्रः। जिह्वा सरस्वती। नासिके अश्विनौ। यद्वै प्राणेनान्नमात्मन् प्रणयते। तत् प्राणस्य प्राणत्वम्। जिह्वया वा अन्नस्य रसं विजानाति। नासिके उ वै प्राणस्य पंथाः।। माश १२.९,१, १४

सर्वेषां रसानां जिह्वैकायनम् - १४.५.४.[११]

जिह्वा वै ग्रहः। स रसेनातिग्रहेण गृहीतो जिह्वया हि रसान्विजानाति - १४.६.२.[३]

एवं सर्वेषां रसानाञ्जिह्वैकायनम् - १४.७.३.[१२]

८ हनू अधिषवणे, जिह्वाधिषवणं , ग्रावाणो दन्ता – मै ३.८.८, ४.५.९, काठ २५.९, क ४०.२

यथा वै मुखमेवम्पृष्ठ्यः षळहस्तद्यथान्तरम्मुखस्य जिह्वा तालु दन्ता एवं छन्दोमा – ऐब्रा ५.२२

तदनुकृतिरसौ मानुषी वीणा भवति...... यथाऽस्यै जिह्वैवममुष्यै वादनं – ऐआ ३.२.५

उप वाम् जिह्वा घृतम् आचरण्यद् इत्य् आवती । तत् पुरोनुवाक्या रूपम् । प्रति वाम् जिह्वा घृतम् उच्चरण्यद् इत्य् उद्वती । तद् याज्या रूपम् । - कौब्रा. ७.२

त्वामग्न आदित्यास आस्यम् । त्वां जिह्वाꣳ शुचयश्चक्रिरे कवे । त्वाꣳ रातिषाचो अध्वरेषु सश्चिरे । त्वे देवा हविरदन्त्याहुतम् । - तैब्रा २.७.१२.६

जिह्वामग्ने चकृषे हव्यवाहम् । - तैब्रा ३.५.७.१

सप्त ते अग्ने समिधः सप्त जिह्वाः । सप्तर्षयः सप्त धाम प्रियाणि । सप्त होत्रा अनुविद्वान् । सप्त योनीरापृणस्वा घृतेन । - तैब्रा ३.११.५.१

तस्य प्रथमया स्वरमात्रया पृथिवीम् अग्निम् ओषधिवनस्पतीन् ऋग्वेदं भूर् इति व्याहृतिं गायत्रं छन्दस् त्रिवृतं स्तोमं प्राचीं दिशं वसन्तम् ऋतुं वाचम् अध्यात्मं जिह्वां रसम् इतीन्द्रियाण्य् अन्वभवत् ॥ गोब्रा १.१.१७

bottom of page