जातवेदा
टिप्पणी –
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे ।
प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् ॥१॥ - ऋ. ६.४८.१
अस्मिन् ऋचायां यज्ञायज्ञा वो अग्नये इति पदः अग्निहोत्रतः सम्बद्धमस्ति, गिरागिरा च दक्षसे दर्शपूर्णमासतः, प्रप्रवयममृतं जातवेदसं चातुर्मासतः एवं प्रियं मित्रं न शंसिषम् अग्निष्टोमतः।
व्यवहारे, अयं कथितुं शक्यन्ते यत् संसारे या कापि घटना अस्माकं चक्षुषः समक्षे घटति, अस्माकं चेतना येन प्रकारेण तस्याः घटनायाः संज्ञानं करोति, तत् जातवेदा अस्ति। अस्माकं समक्षे यः चित्रः प्रकटयति, तत् घृणोत्पादकं भवितुं शक्यते, शत्रुता उत्पादकं भवितुं शक्यते। किन्तु उपरोक्ता ऋचा कथयति यत् अयं जातवेदः अमृतं भवेत्। संसारे प्रायः अयं घटति यत् कस्यचित् जनस्य दर्शनं अस्माकं अन्तरे श्रद्धां उत्पादयति। किन्तु कालान्तरेण सा श्रद्धा अश्रद्धायां परिवर्तयति। तैत्तिरीयआरण्यके १.१८.१ अष्टदिक्षु अग्नेः अष्टनामानां निर्देशमस्ति। आग्नेयकोणे जातवेदा नाम अस्ति। अग्निकोणः श्रद्धा – अश्रद्धायाः स्थानमस्ति।
चातुर्मासयागेन साकं जातवेदसः किं सम्बन्धं अस्ति, अयं न ज्ञायते। लक्ष्मीनारायणसंहिता ३.९३ मध्ये एकः आख्यानमस्ति। देवशर्मा ब्राह्मणः चातुर्मासयाजनाय ग्रामाद्बहिः गच्छति। प्रवासकाले रुचिसंज्ञकायाः स्वभार्यायाः रक्षणस्य भारं सः विपुलसंज्ञकं स्वशिष्याय ददाति। विपुलः सूक्ष्मशरीरस्य माध्यमेन रुच्याः देहं प्रविशति एवं इन्द्रादिजारेभ्यः तस्याः रक्षां करोति। यद्यपि अस्मिन् आख्याने जातवेदा शब्दः नास्ति, किन्तु जातवेदाशब्दस्य अयं स्पष्टतमः चित्रं अस्ति, अयं प्रतीयते।
हिरण्यवर्णां हरिणीं सुवर्णरजतः स्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ।
श्रीसूक्तस्य प्रथमा ऋचायाः (हिरण्यवर्णां इति) विनियोगं वैष्णव - अर्चायां महालक्ष्म्याः नेत्रोन्मीलने अस्ति। योगस्य भाषायां नेत्रोन्मीलनं समाधितः व्युत्थानस्य स्थितिः भवितुं शक्यते। समाधितः व्युत्थानोपरि जगतस्य बोधः भवति। सरस्वतीरहस्योपनिषदि व्युत्थानस्य प्रक्रियायाः विभाजनं अस्ति, भाति, प्रिय, नाम एवं रूपे अस्ति। एभ्यः प्रथमत्रयाणां सम्बन्धः अन्तर्जगतेन सह अस्ति, अन्तिमानां द्वयानां बाह्यजगततः। ऋग्वेदे (३.२०.३ एवं ८.११.५) जातवेदा सह नाम शब्दस्य उल्लेखमस्ति। ऋग्वेदे ४.४३.१०(?) जातवेदा सह रूपस्य उल्लेखमस्ति। अतः अनुमानमस्ति यत् जातवेदा अपि समाधितः व्युत्थानोपरि जगतः प्रतीत्याः स्थितिरस्ति।
ताम् मावह जातवेदो लक्ष्मीम् अनपगामिनीम् ।
यस्याम् हिरण्यम् विन्देयम् गाम् अश्वम् पुरुषान् अहम् ।
श्रीसूक्तस्य अस्मिन् ऋचायां जातवेदा अग्नितः प्रार्थना अस्ति यत् सा अग्निः मम उपयोग हेतु चन्द्रां, हिरण्मयीं लक्ष्मीं आह्वयतु। न केवलं इदमेव, अपितु सा लक्ष्मी अपगामिनी न भवेत्, अपितु अनपगामिनी भवेत्। लक्ष्म्याः स्वभावः चंचला भवति। सा न कुत्रापि स्थैर्यैण तिष्ठति। अस्मिन् जगते सामान्य रूपेण वयं कस्य आह्वानं कुर्वामः। भोजनस्य आनन्दं प्राथमिकता अस्ति। रजनीश महोदय इत्यादयः जनाः कथयन्ति यत् भोजने यो रसः अस्ति, तस्य अनुभूतिः यदि कस्मिन्नपि अवसरे भवति, तदनुभूतेः पुनरावृत्तिः पुनः पुनः कर्तुं न शक्यमस्ति। एकवारस्य अनुभूतिः स्थायी भवितुमर्हति। अयं स्थायी अनुभूतिः अपि लक्ष्मी अनपगामिनी भविष्यति। ऋग्वेद ३.१.२० अनुसारेण जन्मञ्जन्मन्निहितो जातवेदाः अर्थात् अनुभवः जन्मजन्मान्तरेणापि स्थायी भवितुं शक्यते। या विद्या एकस्मिन् जन्मनि गृहीतं अस्ति, तस्याः सातत्यं आगामी जन्मेपि भवितुं आवश्यकता अस्ति।
श्रीसूक्तस्य द्वितीया ऋचा अपेक्षा करोति यत् हिरण्यतः पूर्वाः ये स्थितयः सन्ति, तेषां प्राकट्यं अस्माकं चेतनायाः समक्षे न भवेत्। हिरण्य-पूर्वाणां स्थितीनां संज्ञा शतपथब्राह्मणानुसारेण सलिल, फेन, बुद्बुद, मृदा, शर्करा, अयः आदीनि सन्ति।
अयं प्रतीयते यत् पुराणेषु लक्ष्म्याः स्थाने नारायण - बलं धारणा अपि अस्ति। एवं जातवेदा शब्दस्य रूपान्तरणम् नारायण शब्द द्वारा भवति –
हिरण्यवर्णां हरिणीं हिरण्यरजतात्मिकाम्।
चान्द्रीं स्वर्णमयीं लक्ष्मीं नारायणो म आवह॥ - ल.ना.सं. १.११७.४०
अतः नारायण – बल रूपीं लक्ष्मीं केन प्रकारेण अधिकाधिक प्रतथरूपेण धारणीयः, अस्य प्रश्नस्य उत्तरं वेदानुसारेण जातवेदा शब्दे निहितमस्ति। जातवेदस्य शब्दस्य किं अर्थं भवितुं शक्यते। अनुमानानुसारेण, यदा समाधितः व्युत्थानं भवति, यदा जगतः भानं भवति, सा स्थितिः जातवेदा नामधेयं धारणाय उपयुक्तं अस्ति। अन्ये अर्थे, कस्यचिद् द्रव्यस्य स्व-इन्द्रियेभिः सम्यक् ज्ञानप्राप्तिः जातवेदा नाम धारितुं शक्यते। जातवेदा अग्नेः एका संज्ञा भवति। अग्निः अर्थात् भूतानां रसं, भूतानां सारं। जातवेदा अग्नेः प्रकृतिः कः भवति। ऋग्वेदानुसारेण –
विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम् ।
अग्निर्देवानामव आवृणानः सुमृळीको भवतु जातवेदाः ॥ - ४,००१.२०
अर्थात् अयं अग्निः अ-दिति भवितुं अर्हति, अतिथि भवितुं अर्हति। तदैव जातवेदा जातवेदा भविष्यति। सर्वाणि इन्द्रियाणि भूतानां रसानां ग्रहणं कुर्वन्ति। तेषां सर्वेषां ग्रहणमध्ये तारतम्यस्य स्थापनं अपेक्षितं भवति येन सः अनुभवः धारा रूपेण भवतु, न खण्ड रूपे।
ऋग्वेदस्य खिले कथनं भवति यत् यमः मृत्यु द्वारा मां पूतं करोतु, जातवेदा ऊर्जयन्त्या मां पुनातु –
इन्द्रस् सुनीती सह मा पुनातु सोमस् स्वस्त्या वरुणस् समीच्या ।
यमो राजा प्रमृणाभिः पुनातु माम् जातवेदा मोर्जयन्त्या पुनातु । - खिल ३.१०.५
ऊर्जयन्त्याः किं अर्थं भवितुं शक्यते, अयं ऊर्जा शब्दस्य टिप्पणीतः अत्र उद्धृतमस्ति –
वैदिक साहित्ये इष एवं ऊर्ज द्वि शब्दौ स्तः। इष अर्थात् आकाशतः वृष्टि रूपेण अन्नस्य प्राप्तिः। ऊर्ज अर्थात्त वृष्टि द्वारा पृथिव्योपरि जीवनस्य, ओषधस्य यः वृद्धिं भवति, तदूर्जमस्ति। अथवा इष रूपी यः अन्नम् प्राप्तं भवति, तस्मिन् रसस्य स्थापनं ऊर्ज द्वारा भवति। अथवा अयमपि संभवमस्ति यत् इषः अक्षीय ऊर्जा अस्ति। अस्य अक्षीया ऊर्जायाः चतुर्दिक प्रसरणं ऊर्जमस्ति। ऊर्ज शब्दस्य मूलं ऋजु अस्ति।
इमं स्तोमं अर्हते जातवेदसे रथमिव सं महेमा मनीषया।
भद्रा हि नः प्रमतिरस्ति संसद्यग्ने सख्ये मा रिषामा वयं तव।। - ऋ. १.९४.१
अग्नेः सम्बन्धं छन्देभ्यः सह भवति, इन्द्रस्य स्तोमेभिः सह। स्तोमाः सामगानतः सम्बद्धाः सन्ति। अयं अनुमानं अस्ति यत् छन्दः स्थिति मध्ये सर्वं द्रव्यं सामान्य, अविशेष संज्ञा ग्रहीष्यति। न कोपि प्रमुखं भविष्यति। किन्तु स्तोमस्य विषये विशेष स्थितिः भविष्यति, यः स्थितिः न सामान्यः अस्ति। आधुनिक विज्ञानानुसारेण अयं बोस आईन्स्टीन एवं फर्मी डिराक सांख्यिकी द्वारा व्यक्तं कर्तुं शक्यन्ते। इमं स्तोमं अर्हते जातवेदसे अनुसारेण अत्र जातवेदा इन्द्र – तुल्यं भवति। यथा इन्द्रस्य सख्यं मरुद्भिः सह अस्ति, एवं प्रकारेण वयं जातवेदा अग्नेः सखायाः भवामः।
षष्ठमहः - वैश्वदेवशस्त्रम्, आग्निमारुतशस्त्रम्-- इमम् स्तोमम् अर्हते जात वेदस इति जातवेदसीयम् । तस्य तद् एव अन्त रूपम् यत् सोदर्कम् । मा रिषाम मा रिषाम इति । तद् अन्ततो अरिष्ट्यै रूपम् । - कौ.ब्रा. २३.८
इमं स्तोममर्हते जातवेदस इत्याग्नीध्रो यजति रथमिव सम्महेमा मनीषयेति बहूनि वाह तदृभूणां रूपम् – ऐ.ब्रा. ६.१२.१२
षष्ठे अहनि प्रथममाज्यस्तोत्रम् - इमं स्तोममर्हते जातवेदस" इत्याग्नेयमाज्यं भवति सोदर्कमिन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसमपश्यंस्तदनुन्यतुदन् – तांब्रा. १३.८.१
इमं स्तोमम् अर्हते जातवेदसे इत्य् आग्नीध्रो यजति रथम् इव सं महेमा मनीषया इति बहूनि वाह तद् ऋभूणां रूपम् – गो.ब्रा. २.२.२२
अग्न्यन्वाधानप्रकरणम् -- प्राग्नये वाचमिमं स्तोममिति चोपस्थानं सूक्ताभ्याम् – शांश्रौसू. ४.२.१०
ज्योतिष्टोमे तृतीयसवने प्रस्थितयाज्याप्रकरणम् -- इमं स्तोममित्याग्नीध्रः शांश्रौसू. ८.२.११
दशरात्रे षष्ठमहः -- इमं स्तोममित्याग्निमारुते शां.श्रौ.सू. १०.८.१५
उपनयनम् -- इमँ स्तोममर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्यैधोस्येधिषीमहीति समिधमादधाति – मानवगृह्यसूत्रम् १.१.१६
दर्भाणां पवित्रे मन्त्रवदुत्पाद्येमँ स्तोममर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य पश्चादग्नेरेकवद्बर्हिःस्तृणाति मानव गृह्यसूत्रम् १.१०.२
इमँ स्तोममर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य पश्चादग्नेरेकवद्बर्हिस्तृणाति मानवगृह्यसूत्रम् २.२.५
भारुण्ड सामगानम् (विद्वान् श्री महाबलेश्वर भट्ट द्वारा)
जागर्षि त्वम् भुवने जातवेदो जागर्षि यत्र यजते हविष्मान् । - खिल २,३ १
हिरण्य वर्णाम् हरिणीम् सुवर्ण रजत स्रजाम् ।
चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह । - २,६ १
ताम् मावह जातवेदो लक्ष्मीम् अनपगामिनीम् ।
यस्याम् हिरण्यम् विन्देयम् गाम् अश्वम् पुरुषान् अहम् । - २,६ २
इन्द्रस् सुनीती सह मा पुनातु सोमस् स्वस्त्या वरुणस् समीच्या ।
यमो राजा प्रमृणाभिः पुनातु माम् जातवेदा मोर्जयन्त्या पुनातु । - खिल ३.१०.५
सहस्र सम्मिताम् दुर्गाम् जातवेदसे सुनवाम सोमम् । - ४,२ ५
विपुलम् वनम् बह्व् आकाशम् चर जातवेदः कामाय – खिल ७ ३।
अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य।
आ दाशुषे जातवेदो वहा त्वमद्या देवाँ उषर्बुधः॥ १.०४४.०१
तमेतं शब्दं यास्को व्याचष्टे-’ जातवेदाः कस्मात् । जातानि वेद जातानि वैनं विदुर्जाते जाते विद्यत इति वा जातवित्तो वा जातधनो जातविद्यो वा जातप्रज्ञानो यत्तज्जातः पशूनविन्दतेति तज्जातवेदसो जातवेदस्त्वमिति ब्राह्मणम् । तस्मात्सर्वानृतून्पशवोऽग्निमभिसर्पन्तीति च ' ( निरु. ७. १९ ) इति ।
श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे।
देवाँ अच्छा यातवे जातवेदसमग्निमीळे व्युष्टिषु॥ १.०४४.०४
उदु त्यं जातवेदसं देवं वहन्ति केतवः।
दृशे विश्वाय सूर्यम्॥ १.०५०.०१
दिवश्चित्ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम्।
राजा कृष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ॥ १.०५९.०५
एवाग्निर्गोतमेभिर्ऋतावा विप्रेभिरस्तोष्ट जातवेदाः।
स एषु द्युम्नं पीपयत्स वाजं स पुष्टिं याति जोषमा चिकित्वान्॥ १.०७७.०५
अभि त्वा गोतमा गिरा जातवेदो विचर्षणे।
द्युम्नैरभि प्र णोनुमः॥ १.०७८.०१
अग्ने वाजस्य गोमत ईशानः सहसो यहो।
अस्मे धेहि जातवेदो महि श्रवः॥ १.०७९.०४
इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया।
भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव॥ १.०९४.०१
जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः।
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः॥ १.०९९.०१
अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम्।
य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा।
घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः॥ १.१२७.०१
यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा।
समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदम्॥ २.००२.०१
उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश्च शर्मणि।
वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः॥ २.००२.१२
हुवे वः सुद्योत्मानं सुवृक्तिं विशामग्निमतिथिं सुप्रयसम्।
मित्र इव यो दिधिषाय्यो भूद्देव आदेवे जने जातवेदाः॥ २.००४.०१
एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् ।
महान्ति वृष्णे सवना कृतेमा जन्मञ्जन्मन्निहितो जातवेदाः ॥ - ३,००१.२०
जन्मञ्जन्मन्निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः ।
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥ - ३,००१.२१
नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् ।
रथीर्ऋतस्य बृहतो विचर्षणिरग्निर्देवानामभवत्पुरोहितः ॥ - ३,००२.०८
विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम्।
अध्वराणां चेतनं जातवेदसं प्र शंसन्ति नमसा जूतिभिर्वृधे॥ ३.००३.०८
मित्रो अग्निर्भवति यत्समिद्धो मित्रो होता वरुणो जातवेदाः।
मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम्॥ ३,००५.०४
ऋतस्य वा केशिना योग्याभिर्घृतस्नुवा रोहिता धुरि धिष्व।
अथा वह देवान्देव विश्वान्स्वध्वरा कृणुहि जातवेदः॥ ३.००६.०६
स घा यस्ते ददाशति समिधा जातवेदसे।
सो अग्ने धत्ते सुवीर्यं स पुष्यति॥ ३.०१०.०३
अग्निं सूनुं सनश्रुतं सहसो जातवेदसम्।
वह्निं देवा अकृण्वत॥ ३.०११.०४
परि विश्वानि सुधिताग्नेरश्याम मन्मभिः।
विप्रासो जातवेदसः॥ ३.०११.०८
यथायजो होत्रमग्ने पृथिव्या यथा दिवो जातवेदश्चिकित्वान् ।
एवानेन हविषा यक्षि देवान्मनुष्वद्यज्ञं प्र तिरेममद्य ॥२॥
त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने ।
ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः ॥३॥
अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः ।
त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम् ॥३.१७.४॥
अग्ने भूरीणि तव जातवेदो देव स्वधावोऽमृतस्य नाम ।
याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥३.२०.३॥
इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व।
स्तोकानामग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य॥ ३.०२१.०१
अयं सो अग्निर्यस्मिन्सोममिन्द्रः सुतं दधे जठरे वावशानः।
सहस्रिणं वाजमत्यं न सप्तिं ससवान्सन्स्तूयसे जातवेदः॥ ३.०२२.०१
निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य प्रणेता।
जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः॥ ३.०२३.०१
अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः।
सधस्थानि महयमान ऊती॥ ३.०२५.०५
अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् । - ३,०२६.०७
अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः।
प्रातःसावे धियावसो॥ ३.०२८.०१
माध्यंदिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व।
अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः॥ ३.०२८.०४
अग्ने वृधान आहुतिं पुरोळाशं जातवेदः।
जुषस्व तिरोअह्न्यम्॥ ३.०२८.०६
अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।
दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥ - ३,०२९.०२
इळायास्त्वा पदे वयं नाभा पृथिव्या अधि।
जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे॥ ३.०२९.०४
या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद्देव चित्रा ।
तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् ॥ - ३,०५७.०६
विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम् ।
अग्निर्देवानामव आवृणानः सुमृळीको भवतु जातवेदाः ॥ - ४,००१.२०
कथा शर्धाय मरुतामृताय कथा सूरे बृहते पृच्छ्यमानः।
प्रति ब्रवोऽदितये तुराय साधा दिवो जातवेदश्चिकित्वान्॥ ४.००३.०८
ऋतं वोचे नमसा पृच्छ्यमानस्तवाशसा जातवेदो यदीदम्।
त्वमस्य क्षयसि यद्ध विश्वं दिवि यदु द्रविणं यत्पृथिव्याम्॥ ४.००५.११
किं नो अस्य द्रविणं कद्ध रत्नं वि नो वोचो जातवेदश्चिकित्वान्।
गुहाध्वनः परमं यन्नो अस्य रेकु पदं न निदाना अगन्म॥ ४.००५.१२
यस्त्वामग्न इनधते यतस्रुक्त्रिस्ते अन्नं कृणवत्सस्मिन्नहन्।
स सु द्युम्नैरभ्यस्तु प्रसक्षत्तव क्रत्वा जातवेदश्चिकित्वान्॥ ४.०१२.०१
प्रत्यग्निरुषसो जातवेदा अख्यद्देवो रोचमाना महोभिः ।
आ नासत्योरुगाया रथेनेमं यज्ञमुप नो यातमच्छ ॥ - ४,०१४.०१
अस्मिन् ऋचि जातवेदाः(बहुवचनम्) उषसः प्रत्यग्निः अस्ति। प्रत्यग्निः अर्थात् उषसि या सममितिः अनुपलब्धा अस्ति, तस्याः पूर्तिः जातवेदाः करोति। वैदिकवाङ्मये प्रातःकाले सूर्योदयात्पूर्वं उषसः आविर्भावः भवति। सूर्यस्य रथः उषसः अनुगमनं करोति। अस्मात् ऋचात् संकेतं मिलति यत् नासत्योः रथः जातवेदायाः अनुगमनं करोति। उषसि ये दोषाः संभाव्याः सन्ति, तेषां शोधनाय कर्मकाण्डे आरुणकेतुक अग्निचयनं भवति यत्र आपःरूपेण पुण्यानां संग्रहणं कुर्वन्ति(उखासंभरणम्)। जातवेदसि ये दोषाः संभाव्याः सन्ति, तेषां अपनयनं केन प्रकारेण संभवमस्ति, न ज्ञायते। केवलं अयमेव ज्ञायते यत् जातवेदसः प्रथमा अवस्था अर्हतः संज्ञका अस्ति, अपरा महःसंज्ञका – इमं स्तोमं अर्हते जातवेदसे रथमिव संमहेम मनीषया।
अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम्।
घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः॥ ४.०५८.०८
जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य।
जुषस्व नः समिधं जातवेद आ च देवान्हविरद्याय वक्षि॥ ५.००४.०४
विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि।
अग्ने अत्रिवन्नमसा गृणानोऽस्माकं बोध्यविता तनूनाम्॥ ५.००४.०९
यस्त्वा हृदा कीरिणा मन्यमानोऽमर्त्यं मर्त्यो जोहवीमि।
जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमश्याम्॥ ५.००४.१०
यस्मै त्वं सुकृते जातवेद उ लोकमग्ने कृणवः स्योनम्।
अश्विनं स पुत्रिणं वीरवन्तं गोमन्तं रयिं नशते स्वस्ति॥ ५.००४.११
सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन।
अग्नये जातवेदसे॥ ५.००५.०१
त्वामग्ने हविष्मन्तो देवं मर्तास ईळते।
मन्ये त्वा जातवेदसं स हव्या वक्ष्यानुषक्॥ ५.००९.०१
न्यग्निं जातवेदसं दधाता देवमृत्विजम्।
प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः॥ ५.०२२.०२
न्यग्निं जातवेदसं होत्रवाहं यविष्ठ्यम् ।
दधाता देवमृत्विजम् ॥ - ५,०२६.०७
पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः।
वैश्वानराय मतिर्नव्यसी शुचिः सोम इव पवते चारुरग्नये॥ ६.००८.०१
पुरो वो मन्द्रं दिव्यं सुवृक्तिं प्रयति यज्ञे अग्निमध्वरे दधिध्वम्।
पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः॥ ६.०१०.०१
सास्माकेभिरेतरी न शूषैरग्निः ष्टवे दम आ जातवेदाः।
द्र्वन्नो वन्वन्क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः॥ ६.०१२.०४
समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम्।
विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम्॥ ६.०१५.०७
अग्निर्होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः।
देवानामुत यो मर्त्यानां यजिष्ठः स प्र यजतामृतावा॥ ६.०१५.१३
सुवीरं रयिमा भर जातवेदो विचर्षणे।
जहि रक्षांसि सुक्रतो॥ ६.०१६.२९
त्वं नः पाह्यंहसो जातवेदो अघायतः।
रक्षा णो ब्रह्मणस्कवे॥ ६.०१६.३०
ब्रह्म प्रजावदा भर जातवेदो विचर्षणे।
अग्ने यद्दीदयद्दिवि॥ ६.०१६.३६
आ जातं जातवेदसि प्रियं शिशीतातिथिम्।
स्योन आ गृहपतिम्॥ ६.०१६.४२
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे ।
प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् ॥ - ६,०४८.०१
विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै।
ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि॥ ७.००२.०७
स जायमानः परमे व्योमन्वायुर्न पाथः परि पासि सद्यः।
त्वं भुवना जनयन्नभि क्रन्नपत्याय जातवेदो दशस्यन्॥ ७.००५.०७
तामग्ने अस्मे इषमेरयस्व वैश्वानर द्युमतीं जातवेदः ।
यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय ॥ - ७,००५.०८
त्वामग्ने समिधानो वसिष्ठो जरूथं हन्यक्षि राये पुरंधिम्।
पुरुणीथा जातवेदो जरस्व यूयं पात स्वस्तिभिः सदा नः॥ ७.००९.०६
स मह्ना विश्वा दुरितानि साह्वानग्निः ष्टवे दम आ जातवेदाः।
स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः॥ ७.०१२.०२
त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः।
त्वं देवाँ अभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा॥ ७.०१३.०२
समिधा जातवेदसे देवाय देवहूतिभिः।
हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये॥ ७.०१४.०१
अग्ने वीहि हविषा यक्षि देवान्स्वध्वरा कृणुहि जातवेदः॥ ७.०१७.०३
स्वध्वरा करति जातवेदा यक्षद्देवाँ अमृतान्पिप्रयच्च॥ ७.०१७.०४
यदि वाहमनृतदेव आस मोघं वा देवाँ अप्यूहे अग्ने।
किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निर्ऋथं सचन्ताम्॥ ७.१०४.१४
स त्वमस्मदप द्विषो युयोधि जातवेदः।
अदेवीरग्ने अरातीः॥ ८.०११.०३
अन्ति चित्सन्तमह यज्ञं मर्तस्य रिपोः।
नोप वेषि जातवेदः॥ ८.०११.०४
मर्ता अमर्त्यस्य ते भूरि नाम मनामहे ।
विप्रासो जातवेदसः ॥८.११.५॥
ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम्।
चरिष्णुधूममगृभीतशोचिषम्॥ ८.०२३.०१
उशना काव्यस्त्वा नि होतारमसादयत्।
आयजिं त्वा मनवे जातवेदसम्॥ ८.०२३.१७
प्रथमं जातवेदसमग्निं यज्ञेषु पूर्व्यम्।
प्रति स्रुगेति नमसा हविष्मती॥ ८.०२३.२२
अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे।
अग्ने जनामि सुष्टुतिम्॥ ८.०४३.०२
कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः।
अग्निर्यद्रोधति क्षमि॥ ८.०४३.०६
तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम्।
अग्ने घ्नन्तमप द्विषः॥ ८.०४३.२३
उरुष्या णो मा परा दा अघायते जातवेदः।
दुराध्ये मर्ताय॥ ८.०७१.०७
अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम्।
द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि॥ ८.०७१.११
पन्यांसं जातवेदसं यो देवतात्युद्यता।
हव्यान्यैरयद्दिवि॥ ८.०७४.०३
अमृतं जातवेदसं तिरस्तमांसि दर्शतम् ।
घृताहवनमीड्यम् ॥ - ८,०७४.०५
पुनन्तु मां देवजनाः पुनन्तु वसवो धिया।
विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा॥ ९.०६७.२७
ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत् ।
रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुच्छन् ॥ - १०,००४.०७
तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिरा कृणुध्वम्।
आ यं विप्रासो मतिभिर्गृणन्ति जातवेदसं जुह्वं सहानाम्॥ १०.००६.०५
त्वमग्न ईळितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वी।
प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवींषि॥ १०.०१५.१२
ये चेह पितरो ये च नेह याँश्च विद्म याँ उ च न प्रविद्म।
त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषस्व॥ १०.०१५.१३
मैनमग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम्।
यदा शृतं कृणवो जातवेदोऽथेमेनं प्र हिणुतात्पितृभ्यः॥ १०.०१६.०१
शृतं यदा करसि जातवेदोऽथेमेनं परि दत्तात्पितृभ्यः।
यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति॥ १०.०१६.०२
अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः।
यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम्॥ १०.०१६.०४
अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः।
आयुर्वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः॥ १०.०१६.०५
क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः।
इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन्॥ १०.०१६.०९
यो अग्निः क्रव्यात्प्रविवेश वो गृहमिमं पश्यन्नितरं जातवेदसम्।
तं हरामि पितृयज्ञाय देवं स घर्ममिन्वात्परमे सधस्थे॥ १०.०१६.१०
दिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परि जातवेदाः।
तृतीयमप्सु नृमणा अजस्रमिन्धान एनं जरते स्वाधीः॥ १०.०४५.०१
महत्तदुल्बं स्थविरं तदासीद्येनाविष्टितः प्रविवेशिथापः।
विश्वा अपश्यद्बहुधा ते अग्ने जातवेदस्तन्वो देव एकः॥ १०.०५१.०१
ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टमग्ने अप्स्वोषधीषु ।
तं त्वा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम् ॥ - १०,०५१.०३
कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो न रिष्याः।
अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात॥ १०.०५१.०७
भर्गो ह नामोत यस्य देवाः स्वर्ण ये त्रिषधस्थे निषेदुः।
अग्निर्ह नामोत जातवेदाः श्रुधी नो होतर्ऋतस्य होताध्रुक्॥ १०.०६१.१४
त्वे धेनुः सुदुघा जातवेदोऽसश्चतेव समना सबर्धुक्।
त्वं नृभिर्दक्षिणावद्भिरग्ने सुमित्रेभिरिध्यसे देवयद्भिः॥ १०.०६९.०८
देवाश्चित्ते अमृता जातवेदो महिमानं वाध्र्यश्व प्र वोचन्।
यत्सम्पृच्छं मानुषीर्विश आयन्त्वं नृभिरजयस्त्वावृधेभिः॥ १०.०६९.०९
मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः।
मन्युं विश ईळते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः॥ १०.०८३.०२
अयोदंष्ट्रो अर्चिषा यातुधानानुप स्पृश जातवेदः समिद्धः।
आ जिह्वया मूरदेवान्रभस्व क्रव्यादो वृक्त्व्यपि धत्स्वासन्॥ १०.०८७.०२
अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम्।
प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोतु वृक्णम्॥ १०.०८७.०५
यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम्।
यद्वान्तरिक्षे पथिभिः पतन्तं तमस्ता विध्य शर्वा शिशानः॥ १०.०८७.०६
उतालब्धं स्पृणुहि जातवेद आलेभानादृष्टिभिर्यातुधानात्।
अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः॥ १०.०८७.०७
इमा अस्मै मतयो वाचो अस्मदाँ ऋचो गिरः सुष्टुतयः समग्मत।
वसूयवो वसवे जातवेदसे वृद्धासु चिद्वर्धनो यासु चाकनत्॥ १०.०९१.१२
समिद्धो अद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः।
आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः॥ १०.११०.०१
वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे।
अनुद्रे चिद्यो धृषता वरं सते महिन्तमाय धन्वनेदविष्यते॥ १०.११५.०६
त्वामु जातवेदसं विश्ववारं गृणे धिया।
अग्ने देवाँ आ वह नः प्रियव्रतान्मृळीकाय प्रियव्रतान्॥ १०.१५०.०३
प्र देवं देव्या धिया भरता जातवेदसम् ।
हव्या नो वक्षदानुषक् ॥ - १०,१७६.०२
आग्नेयः श्येनः । जातवेदा अग्निः । गायत्री ।
प्र नूनं जातवेदसमश्वं हिनोत वाजिनम् ।
इदं नो बर्हिरासदे ॥ - १०,१८८.०१
अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः ।
महीमियर्मि सुष्टुतिम् ॥ - १०,१८८.०२
या रुचो जातवेदसो देवत्रा हव्यवाहनीः ।
ताभिर्नो यज्ञमिन्वतु ॥ - १०,१८८.०३
भवतं नः समनसौ सचेतसाव् अरेपसौ ।
मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥ - वा.सं ५.३
*उदु त्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम्॥ - तै.सं. १.४.४३.१
*जातवेदः शिवो भव। - तै.सं. ४.१.९.४
*अग्नेः पूर्वदिश्यस्य स्थाने स्वतेजसा भानि । जातवेदस उपदिश्यस्य स्थाने स्वतेजसा भानि ।- तै.आ. १.१८.१
*तद्यज्जातं जातं विन्दते तस्माज्जातवेदाः। - मा.श. ९.५.१.६८
*प्राणो वै जातवेदाः स हि जातानां वेद। - ऐ.ब्रा. २.३९
*यज्जातः पशूनविन्दत तज्जातवेदसो जातवेदस्त्वम्। - मै.सं. १.८.२
*या वा अग्नेर्जातवेदास्तनूस्तयैव प्रजा हिनस्त्यग्निहोत्रे भागधेयमिच्छमानः – काठ.सं. ६.७
*सोऽध्वरा करति जातवेदा इति शंसति वायुर्वै जातवेदा वायुर्हीदं सर्वं करोति यदिदं किंच। - ऐ.ब्रा. २.३४
*सो ऽब्रवीज्जाता वै प्रजा अनेनाविदमिति यदब्रवीज्जाता वै प्रजा अनेनाविदमिति तज्जातवेदस्यमभवत्तज्जातवेदसो जातवेदस्त्वम्। - ऐ.ब्रा. ३.३६
*जातवेदसे सुनवाम सोमम् इति जातवेदस्याऽच्युता। यज्ञेन वर्धत जातवेदसमिति जातवेदस्य वृधन्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम् - ऐ.ब्रा. ४.३२, ५.२, ५.८, ५.१५, ५.१७, ५.१९, ५.२१
जातवेदसे सुनवाम सोममिति जातवेदस्याच्युता त्वमग्ने प्रथमो अङ्गिरा ऋषिरिति जातवेदस्यम्पुरस्तादुदर्कं तृतीयेऽहनि तृतीयस्याह्नो रूपं – ऐ.ब्रा.५.२
* जातवेदसे सुनवाम सोममिति जातवेदस्यां पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै जातवेदस्या स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते, इति । इमं स्तोममर्हते जातवेदस इति जातवेदस्यं समानोदर्कं - ऐ.आ. १.५.३(तु. ऐ. ४.३०)
*एषा वा अस्य(अग्नेः) जातवेदस्या तनूः क्रूरैतया वा एष पशून्शमायते। - मै.सं. १.८.६
*पिता पुत्राय लोककृज् जातवेदो नया ह्य् एनं सुकृतां यत्र लोकः। अस्माद् वै त्वम् अजायथा एष त्वज् जायतां स्वाहा इति। जै. १.४५
*यज्ञा वो अग्नये इति षड्भिर् अक्षरैः प्रस्तौति। गिरा च दक्षसे इति षड्भिर् अक्षरैर् आदिम् आदत्ते। तद् द्वादश संपद्यन्ते। द्वादशाक्षरा जगती। जगतीं प्रथमतः पर्यूहन्ति। तज् जगत्या विमुच्यन्ते। प्र वयम् अमृतं जातवेदसम् इत्य् एकादशाक्षराणि संपद्यन्ते। एकादशाक्षरा त्रिष्टुप्। तत् त्रिष्टुभा विमुच्यन्ते। प्रियं मित्रं नु शंसिषम् इत्य् अष्टाभिर् अक्षरैर् निधनम् उपयन्ति। - जै. १.१७८
*तद् आहुर् - मिथुनानि पञ्चाहान्य्, अमिथुनं षष्ठम् अहः। तद् यद् इमं स्तोमम् अर्हते जातवेदस इत्य् आग्नेयम् आज्यं भवति, तेनैव मिथुनं षष्ठम् अहः क्रियते। रथम् इव सं महेमा मनीषयेत्य् एतेन मिथुनं क्रियते। होता वै पूर्वेष्व अहस्सु यजमानायाशिषम् आशास्त उद्गातैतस्मिन्। यो वै साम्नाशिषम् आशास्ते मीयत इव वै तस्य। तद् यद् अग्ने सख्ये मा रिषामा वयं तव, अग्ने सख्ये मा रिषामा वयं तवेति भवति, भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तथा हास्य न मीयते। जै. ३.१४०