जुहू
ब्रह्माण्ड १.१.५.१६(यज्ञवराह के जुहूमुख होने का उल्लेख )
संदर्भ
मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये मा नो अस्यै ।
मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ॥ ७,००१.१९
यस्य त्वमिन्द्र स्तोमेषु चाकनो वाजे वाजिञ्छतक्रतो ।
तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवः ॥ ८,०५२.०४
त्वे धर्माण आसते जुहूभिः सिञ्चतीरिव ।
कृष्णा रूपाण्यर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे ॥(दे.अग्निः) १०,०२१.०३
जुहूर्दाधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् ।
प्रतीमां लोका घृतपृष्ठाः स्वर्गाः कामंकामं यजमानाय दुह्राम् ॥(१८.४.५ )
ध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व ।
जुहु द्यां गच्छ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृण्यमानः ॥(१८.४.६ )
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
जुहूमसि द्यविद्यवि ॥(२०.६८.१ )
देवा वै ब्रह्मन्न् अवदन्त तत् पर्ण उपाशृणोत् सुश्रवा वै नाम यस्य पर्णमयी जुहूर् भवति न पापम्̇ श्लोकम्̇ शृणोति । ब्रह्म वै पर्णो विण् मरुतो ऽन्नं विण् मारुतो ऽश्वत्थो यस्य पर्णमयी जुहूर् भवत्य् आश्वत्थ्य् उपभृद् ब्रह्मणैवान्नम् अव रुन्द्धे ऽथो ब्रह्म एव विश्य् अध्य् ऊहति । राष्ट्रं वै पर्णो विड् अश्वत्थो यत् पर्णमयी जुहूर् भवत्य् आश्वत्थ्य् उपभृद् राष्ट्रम् एव विश्य् अध्य् ऊहति । प्रजापतिर् वा अजुहोत् सा यत्राऽऽहुतिः प्रत्यतिष्ठत् ततो विकङ्कत उद् अतिष्ठत् ततः प्रजा असृजत यस्य वैकङ्कती ध्रुवा भवति प्रत्य् एवास्याऽऽहुतयस् तिष्ठन्त्य् अथो प्रैव जायते । - तै.सं. ३.५.७.२
यजमान एव जुहूमनु । योऽस्मा अरातीयति स उपभृतमन्वत्तैव जुहूमन्वाद्य उपभृतमन्वत्तैव जुहूराद्य उपभृत्स वै चतुर्जुह्वां गृह्णात्यष्टौ कृत्व उपभृति - श.ब्रा. १.३.२.[११]
स यच्चतुर्जुह्वां गृह्णाति । अत्तारमेवैतत्परिमिततरं कनीयांसं करोत्यथ यदष्टौ कृत्व उपभृति गृह्णात्याद्यमेवैतदपरिमिततरं भूयांसं करोति तद्धि समृद्धं यत्रात्ता कनीयानाद्यो भूयान् – माश १.३.२.[१२]
स वै चतुर्जुह्वां गृह्णन् । भूय आज्यं गृह्णात्यष्टौ कृत्व उपभृति गृह्णन्कनीय आज्यं गृह्णाति – माश १.३.२.[१३]
अथ जुहूं प्रतिगृह्णाति । घृताच्यसि जुहूर्नाम्नेति घृताची हि जुहूर्हि नाम्ना सेदम् प्रियेण धाम्ना प्रियं सद आसीदेति घृताच्यस्युपभृन्नाम्नेत्युपभृतं घृताची ह्युपभृद्धि नाम्ना सेदं प्रियेण धाम्ना प्रियं सद आसीदेति घृताच्यसि ध्रुवा नाम्नेति ध्रुवां घृताची हि ध्रुवा हि नाम्ना सेदं प्रियेण धाम्ना प्रियं सद आसीदेति प्रियेण धाम्ना प्रियं सद आसीदेति यदन्यद्धविः – माश १.३.४.[१४]
स वा उपरि जुहूं सादयति । अध इतराः स्रुचः क्षत्रं वै जुहूर्विश इतराः स्रुचः क्षत्रमेवैतद्विश उत्तरं करोति तस्मादुपर्यासीनं क्षत्रियमधस्तादिमाः प्रजा उपासते तस्मादुपरि जुहूं सादयत्यध इतराः स्रुचः – माश १.३.४.[१५]
आस्पात्रं जुहूर्देवानामिति । देवपात्रं वा एष यदग्निस्तस्मादग्नौ सर्वेभ्यो देवेभ्यो जुह्वति देवपात्रं ह्येष प्राप्नोति ह वै तस्य पात्रं यस्य पात्रम् प्रेप्स्यति य एवमेतद्वेद – माश १.४.२.[१३]
स वा अग्रं जुह्वामनक्ति । मध्यमुपभृति मूलं ध्रुवायामग्रमिव हि जुहूर्मध्यमिवोपभृन्मूलमिव ध्रुवा – माश १.८.३.[१३]
सोऽनक्ति । व्यन्तु वयोऽक्तं रिहाणा इति वय एवैनमेतद्भूतमस्मान्मनुष्यलोकाद् देवलोकमभ्युत्पातयति तन्नीचैरिव हरति द्वयं तद्यस्मान्नीचैरिव हरेद्यजमानो वै प्रस्तरोऽस्या एवैनमेतत्प्रतिष्ठायै नोद्धन्तीहो एव वृष्टिं नियच्छति – माश १.८.३.[१४]
अथातः स्रुचोरादानस्य तद्धैतदेके कुशला मन्यमाना दक्षिणेनैव जुहूमाददते सव्येनोपभृतं न तथा कुर्याद्यो हैनं तत्र ब्रूयात्प्रतिप्रतिं न्वा अयमध्वर्युर्यजमानस्य द्विषन्तं भ्रातृव्यमकत्प्रत्युद्यामिनमितीश्वरो ह तथैव स्यात् माश ११.४.२.[१]
इत्थमेव कुर्यात् उभाभ्यामेव पाणिभ्यां जुहूम् परिगृह्योपभृत्यधिनिदध्यात्तस्य नोपमीमांसास्ति तत्पशव्यमायुष्यं ते असंशिञ्जयन्नाददीत यत्संशिञ्जयेदयोगक्षेमो यजमानमृच्छेत्तस्मादसंशिञ्जयन्नाददीत – माश ११.४.२.[२]
अथ ब्रह्मयज्ञः स्वाध्यायो वै ब्रह्मयज्ञस्तस्य वा एतस्य ब्रह्मयज्ञस्य वागेव जुहूर्मन उपभृच्चक्षुर्ध्रुवा मेधा स्रुवः सत्यमवभृथः स्वर्गो लोक उदयनं – माश ११.५.६.[३]
*आरोह पथो जुहु देवयानान्यत्रर्षयः प्रथमजा ये पुराणाः। हिरण्यपक्षाजिरा संभृताङ्गा वहासि मा सुकृतां यत्र लोकाः। जुहूरसि घृताची गायत्रीयाम्नी कविभिर्जुषाणा। अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानाग्नेयेन शर्मणा दैव्येनेति जुहूम्। - आप.श्रौ.सू. ४.७.२
जुहू
१. असौ (द्यौः) वै जुहूः। काठ ३१,९ तै ३,३,१,१,
असौ वै जुहूः । अन्तरिक्षमुपभृत् । पृथिवी ध्रुवा । तासामेतदेव प्रियं नाम । यद्घृताचीति । तै. ३.३.६,११ ।
२. अग्नेयी वै जुहूः। तै ३,३,७,६ ।।
३. आश्रावयेति जुहूं तेन युनक्ति । काठ ३१, १३ ।
४. ॐ श्रावय, इत्याह, जुह्वं तेन युनक्ति। अस्तु श्रौषट्। इत्युपभृतम्। यजेति ध्रुवाम्। ये यजामहे इत्याज्यधानीं, वषट्कारेण स्रुवम्। । मै ४,१,११।
५. क्षत्रं वै जुहूर्विश इतराः सुचः । माश १, ३,४,१५ ।।
६. स्रुग्घ्येषा । प्राणो वै स्रुवः । जुहूर्दक्षिणो हस्तः । उपभृत्सव्यः । आत्मा ध्रुवा। तै ३,३,१,५ ।।
७. जुहूर्वै यज्ञमुखम् । मै ३,१,१ (तु. काठ १८, १९; क २९, ७)।
८. जुह्वा वै देवा विराजमह्वयँस्तज्जुह्वा जुहूत्वम् । काठ १८,१९; क २९, ७ ।
९. जुह्वेहि घृताची द्यौर्जन्मन - - । काठ १,११; क १,११।।
१०. तस्यासावेव द्यौर्जुहूः । माश १, ३, २, ४ ( तु मै ४, १, ११; १२ ) ।।
११. द्यौरसि जन्मना जुहूर्नाम । मै १, १, १२; ४, १, १३ ।
१२. पर्णमयी जुहूः । तैसं ३, ५, ७, २ ।।
१३. यजमानदेवत्या वै जुहूः । तैसं २, ५, ९, ५; मै ४, १, १२; काठ ३१,९६ क ४७, ९; तै ३,३, ५, ४; ७, ९; ९, ७ ।।
१४. यजमानो वै जुहूः । मै १, ४, १३ ।।
१६. वाग्जुहूः ( प्रायश्चित्तार्थं वेदभागमध्येतुः पुरुषस्य ) र्मन उपभृद्धृतिर्ध्रुवा। तैआ २,१७,२ ।।
[°हू- अग्नि- ४८७;अन्न- ६७; आत्मन्- २४; उपभृत् - १; २; १०; गायत्री- १२४ द्र.] ।
जू-
१. जूरसीत्याह, यद्धि मनसा जवते, तद्वाचा वदति । तैसं ६, १, ७, २ ।।
२. जूरसीत्येतद्ध वा अस्या ( वाचः ) एकं नाम। माश ३, २,४, ११ ।।
जू-त्व- यद्वाव जवत इत्थमसादित्थमसादिति तदस्या (वाचः) जूत्वम् । मै ३,७,५ ।।